• यादृशं मनः तादृशः कायः
    Jun 30 2025

    कदाचित् कश्चन काव्यकुशलः जैनाचार्यः किञ्चन महाकाव्यं रचयितुम् आरब्धवान् । कस्मिंश्चित् सर्गे जलधेः वर्णनं कर्तुम् आरभते । जलधेः विषयमेव सर्वदापि सः चिन्तयन् भवति । तन्मधे जलोदररोगेण ग्रस्तः भवति । सर्वं वृत्तान्तं ज्ञात्वा वैद्यः वदति 'जलधेः वर्णनं समाप्य मरुभूमेः वर्णनं करोतु' इति । जैनाचार्यः विस्मितः सन् अपि वैद्यस्य सूचनां श्रद्धया अपालयत् । जलोदररोगः शान्तः भवति । मनसि यादृशः विचारः क्रियते तादृशः एव प्रभावः शरीरे अपि भवति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A Jain poet began composing an epic poem. While describing the ocean in one section, his constant thoughts about it led to water-related illness. A physician, upon learning this, advised him to complete the ocean description and shift focus to the desert. Trusting the physician’s advice, the poet complied and his ailment subsided. The story highlights how thoughts in the mind can directly influence the body.

    Show More Show Less
    3 mins
  • उपदेशाचरणयोः अन्तरम्
    Jun 29 2025

    कदाचित् कश्चन बौद्धभिक्षुः कम्बोजराज्यम् आगत्य महाराजं तिङ्गभिङ्गं प्रति तस्य राज्यस्य राजपुरोहितः भवितुम् इच्छामि इति कामनां प्राकटयत् । किन्तु राजा 'पुनरपि एकवारं धर्मग्रन्थानाम् आवृत्तिं कृत्वा अगच्छेत्' इति अवदत् । कुपितः सन् सः भिक्षुः किमपि अनुक्त्वा धर्मग्रन्थानाम् अध्ययनम् एकवर्षं यावत् कृत्वा पुनरागच्छति । किन्तु राजा 'एकान्तवासम् अनुभवन् पुनरपि धर्मग्रन्थानां पारायणं करोति चेत् उत्तमं भवति' इति वदति । नागरिकप्रपञ्चस्य समग्रकोलाहलतः दूरे नदीतीरे प्रार्थनाकरणेन भिक्षुणा आनन्दः प्राप्तः । यदा राजा स्वयमेव गत्वा भिक्षुम् आह्वयति तावता भिक्षोः कामना संपूर्णतया अपगता आसीत् । उपदेशेन अहङ्कारः भवति किन्तु आचरणेन आनन्दः भवति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A Buddhist monk approaches King Tingabhanga of Kamboja, expressing a desire to become the royal priest. The king instructs him to study religious scriptures once more before returning. The monk, annoyed but determined, spends a year studying and returns, only to be asked to retreat in solitude and reread the texts. The monk complies and, through prayer by a river far from worldly chaos, finds deep joy. When the king invites him back, the monk realizes his desire has faded, discovering that teaching brings pride, but practicing virtue leads to true happiness.

    Show More Show Less
    5 mins
  • सर्वश्रेष्ठः पुण्यात्मा
    Jun 28 2025

    कदाचित् साक्षात् भगवान् विश्वनाथः मन्दिरस्य पूजकस्य स्वप्नम् आगत्य 'अहं सर्वश्रेष्ठाय पुण्यात्मने कमपि पुरस्कारं दातुम् इच्छामि' इति अवदत् । अनन्तरदिने पूजकः सर्वत्र घोषम् अकरोत् । ततः विभिन्नेषु प्रदेशेषु विद्वांसः, धर्मात्मानः, दातारः, साधकाः च मन्दिरं समागताः । पूजनसमये भगवतः मूर्तेः पुरतः एकं स्वर्णपात्रम् आगतम् । परीक्षार्थं सः पूजकः येषां हस्ते स्वर्णपात्रं ददाति तेषां हस्तं प्राप्य तत्क्षणं मृत्तिकामयं भूत्वा स्वप्रकाशरहितं भवति । कदाचित् कुष्ठरोगपीडितं जनं सेवित्वा वृद्धकृषकः आगतवान् । पूजकः तस्य हस्ते स्वर्णपात्रं स्थापितवान् । तस्य हस्ते पात्रस्य प्रकाशः द्विगुणितः जातः । तदा पूजकः ज्ञापितवान् यत् यः निःस्वार्थः, दयायुक्तः, दाता च भवति, सः एव सर्वश्रेष्ठः इति । भगवता दत्तं स्वर्णपात्रं तस्मै वृद्धकृषकाय दत्तवान् च ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Lord Vishwanath appeared to the temple priest in a dream, expressing a desire to reward the most virtuous soul. The priest spread the announcement, attracting scholars, donors, and spiritual seekers. During the worship, a golden vessel appeared before the deity but turned to mud in everyone’s hands. When a humble, elderly farmer—who had served a person suffering from leprosy—held it, the vessel’s glow doubled. The priest recognized that true greatness lies in selflessness, compassion, and generosity, and awarded the golden vessel to the farmer.

    Show More Show Less
    8 mins
  • सङ्गीतं देशरक्षणाय अपि !!
    Jun 26 2025

    भारतीयेतिहासस्य मध्यकाले चित्रदुर्गनामके संस्थाने सैनिककुटुम्बे जयसिंहः नाम कश्चन युवकः खड्गादिभिः योद्धुं नेष्यते स्म । गाने वाद्यसङ्गीते च तस्य महती आसक्तिः । 'देशस्य रक्षणं न केवलं शस्त्रेण एव, अपि तु सङ्गीतेनापि शक्यम्' इति वदति स्म । कदाचित् सः ब्रिटिश्सैनिकैः निगृहीतः । उच्चाधिकारी 'अद्य रात्रौ दुर्गस्य मुख्यद्वारस्य पुरतः‌ गातव्यम्' इति अवदत् । सः दुर्गसैन्यस्य जागरणाय गीतम् आरभत । जागरितं दुर्गसैन्यं ब्रिटिशसेनायाः उपरि शरवर्षम् अकरोत् । अनन्यगतिकता ब्रिटिश्सेना प्रत्यगच्छत् । जनाः जयसिंहं बहुधा अस्तुवन् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    In medieval India, in Chitradurga, a young man named Jayasimha, born into a soldier's family, loved music over weapons. He believed music could protect the nation as much as weapons could. Captured by British soldiers, he was asked to sing at the fort's main gate. Using his song to alert the fort's soldiers, they launched a fierce attack on the British, forcing them to retreat. Jayasimha was widely praised and celebrated by the people.

    Show More Show Less
    4 mins
  • खड्गस्य गुणवत्ता
    Jun 25 2025

    अङ्गारदेशस्य राज्ञः अङ्गदस्य पुत्रः अक्षयकुमारः । प्रधानमन्त्रिणा जीमूतेन युवराजस्य अध्यापनाय भानुमित्रः‌ गर्गः चेति उभौ आचार्यौ चितौ । भानुमित्रः सुन्दरः सम्भाषाणचतुरः उत्कृष्टवस्त्रधारी च आसीत् । गर्गः तु सामान्यः वेषभूषादिषु अनासक्तः मितभाषी च आसीत् । अतः राज्ञ्यै गायत्र्यै गर्गः न अरोचत । केषाञ्चित् दिनानाम् अनन्तरं जीमूतः राजानं राज्ञीं च आयुधशालां नीत्वा मूषातः तप्तायःपट्टिकां स्वीकृत्य दर्शयन् अवदत् 'खड्गस्य तीक्ष्णता अयसः गुणवत्तातः, निर्मातुः कौशलतः भवति । तीक्ष्णताम् एव अवलम्बते खड्गस्य श्रेष्ठता, न तु बाह्य सौन्दर्यम्' इति । एतस्मात् राज्ञी अवगतवती यत् बाह्यदर्शनमात्रेण कस्यापि श्रेष्ठता न परिमातव्या इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Akshayakumar, the son of King Angada of Angaradesha, had two teachers appointed by the Prime Minister Jimuta—Bhanumitra, who was charming and elegant, and Garga, who was simple and reserved. Queen Gayatri preferred Bhanumitra due to his polished appearance and charisma, while she disliked the plain Garga. To teach an important lesson, Jimuta demonstrated in the armory that a sword’s value lies in its sharpness, not its looks. This helped the queen realize that true greatness should not be judged by appearance alone.

    Show More Show Less
    3 mins
  • सर्वं भगवतः लीला
    Jun 24 2025

    कदाचित् प.पू वल्लभदीक्षितः तत्पुत्रः च श्रीधरहर्गेमहाराजः तीर्थयात्रां कुर्वन्तौ गोदावरीनद्याः समीपे स्थितं राजमहेद्रपत्तनम् आगतवन्तौ । सुखसम्पन्नं नगरं दृष्ट्वा वल्लभदीक्षितः सङ्कल्पितवान् यत् सप्त दिनानि भागवतपारायणं कथाश्रवणं च करणीयम्, तदवसरे सर्वजातिबान्धवानाम् अपि भोजनव्यवस्था करणीया इति । किन्तु नगरस्य धनिकाः वणिजः अदृष्टपूर्वे जने अधिकं विश्वासं कर्तुम् अनिच्छन्तः साहाय्यं न कृतवन्तः । यस्मिन् दिने वल्लभदीक्षितः पारायणस्य आरम्भं कृतवान् तस्मिन्नेव भगवान् रामः, लक्ष्मणः, हनूमान् च वेषान्तरं धृत्वा आपणं स्थापयित्वा सहस्रशः जनेभ्यः‌ भोजनं दत्तवन्तः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, the revered Vallabhadikshita and his son, Shri Dharahargemaharaj, embarked on a pilgrimage and arrived at Rajamahendrapattanam, situated near the Godavari river. Upon seeing the prosperous town, Vallabhadikshita resolved to conduct a seven-day Bhagavata recitation and storytelling session. On this occasion, he decided to arrange food for people from all communities and castes. However, the wealthy merchants of the town, reluctant to trust an unfamiliar person, refused to offer help. On the very day Vallabhadikshita began the recitation, Lord Rama, Lakshmana, and Hanuman, disguised in different forms, established a stall and served food to thousands of people.

    Show More Show Less
    4 mins
  • अकबर-बीरबलयोः स्वप्नः
    Jun 23 2025

    कदाचित् अकबरस्य मनसि 'सर्वदा बीरबलः मामेव अपहासपात्रं करोति । मया एकवारं वा सः अपहासपात्रीकरणीयः' इति । अथैकदा अकबरः प्रयत्नम् अपि अकरोत् । किन्तु बीरबलः तु असमान्यः । तं पराजेतुं कष्टम् एव । अकबरस्य प्रयासः व्यर्थः जातः । किं वा अकबर-बीरबलयोः मध्ये प्राचलत् इति जिज्ञासायां कथां शृण्वन्तु ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Once, Akbar thought in his mind, 'Birbal always makes me the subject of ridicule. Once, I must make him a subject of ridicule instead'. Then, one day, Akbar even made an effort. However, Birbal was extraordinary. Defeating him was indeed difficult. Akbar's attempt proved futile. If you're curious to know what happened between Akbar and Birbal, listen to the story.

    Show More Show Less
    3 mins
  • आत्मज्ञानप्राप्तिः.....
    Jun 22 2025

    कदाचित् नारदः स्वसोदराणां सनक-सनत्कुमार-सनन्दन-सन्त्सुजातानां वैराग्यम् आत्मज्ञानप्राप्तिजिज्ञासां जानन् 'योग्यं गुरुम् अन्विष्य मुक्तिं प्राप्तुं प्रयत्नं कुर्वन्तु' इति स्मारितवान् । सनकादयः वैकुण्ठं यदा गतवन्तः तत्र लक्ष्मीसहितं विष्णुं, तत्रत्यं वैभवं दृष्ट्वा आत्मज्ञानं कथं लभेत इति अचिन्तयन् । सर्वम् अन्तर्ज्ञानेन जानन् शिवः सनकादीन् अनुग्रहीतुम् इच्छन् दक्षिणामूर्तिरूपेण अवतारं प्राप्य वटवृक्षस्य अधः चिन्मुद्रां‌ धृत्वा उपाविशत् । वैकुण्ठतः प्रत्यागच्छन्तः सनकादयः शिवस्य दर्शनसमनन्तरं त्रिभिः प्रदक्षिणैः तं नमस्कृत्य पादमूले उपविश्य समाधिस्थाः सन्तः आत्मज्ञानवन्तः जाताः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Narada, noticing his brothers’ desire for self-realization, advised them to find a wise teacher to achieve liberation. The Sanakas visited Vaikuntha, where they saw Lord Vishnu with Goddess Lakshmi and the splendor of his realm. However, they wondered how self-realization was possible amidst such luxury. Understanding their quest, Lord Shiva appeared as Dakshinamurti, seated under a banyan tree in silence, symbolizing wisdom. When the Sanakas returned and saw Dakshinamurti, they bowed to him, meditated, and in his presence, achieved self-realization and ultimate truth.

    Show More Show Less
    3 mins